राधा (पौराणिक कादंबरी)
इंग्रजी शीर्षक
Radha (A Mythological Novel)
सारांश
गृहे राधा वने राधा राधा पृष्ठे पुरः स्थिता । यत्र यत्र स्थिता राधा राधा नेत्रे हृदि स्थिता ॥1॥ जिह्वा राधा श्रुतौ राधा राधा नेत्रे हृदि स्थिता । सर्वांगव्यापिनी राधा राधैवाराध्यते मया ॥2॥ पूजा राधा जपो राधा राधिका चाभिवन्दने । स्मृतौ राधा शिरो राधा राधैवाराध्यते मया ॥3॥ गाने राधा गुणे राधा राधिका भोजने गतौ । रात्रौ राधा दिवा राधा राधैवाराध्यते मया ॥4॥ माधुर्ये मधुरा राधा महत्त्वे राधिका गुरुः । सौन्दर्ये सुन्दरी राधा राधैवाराध्यते मया ॥5॥ राधा रससुधासिन्धु राधा सौभाग्यमंजरी । राधा वज्रांगनामुख्या राधैवाराध्यते मया ॥6॥ राधा पद्मानना पद्मा पद्मोद्भवसुपूजिता । पद्मे विवेचिते राधा राधैवाराध्यते मया ॥7॥ राधा कृष्णात्मिका नित्यं कृष्णो राधात्मको ध्रुवम् । वृन्दावनेश्वरी राधा राधैवाराध्यते मया ॥8॥ जिह्वाग्रे राधिकानाम